Surya Kavacham /Surya Kavacham Lyrics in Sanskrit/Surya Kavacham Sanskrit PDF
सूर्य कवचम् (Surya Kavacham):
श्रीभैरव उवाच
यो देवदेवो भगवान् भास्करो महसां निधिः ।
गयत्रीनायको भास्वान् सवितेति प्रगीयते ॥1॥
तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् ।
सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ॥2॥
सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् ।
महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ॥3॥
सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् ।
सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥4॥
रणे राजभये घोरे सर्वोपद्रवनाशनम् ।
मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥5॥
ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् ।
धारणादस्य देवेशि ब्रह्मा लोकपितामहः ॥6॥
विष्णुर्नारायणो देवि रणे दैत्याञ्जिष्यति ।
शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ॥7॥
ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः ।
मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ॥8॥
यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि ।
स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥9॥
बहुनोक्तेन किं देवि कवचस्यास्य धारणात् ।
इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ॥10॥
परत्र परमा मुक्तिर्देवानामपि दुर्लभा ।
कवचस्यास्य देवेशि मूलविद्यामयस्य च ॥11॥
वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः ।
गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ॥12॥
माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि ।
सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ॥13॥
अथ सूर्य कवचं
ॐ अं आं इं ईं शिरः पातु ॐ सूर्यो मन्त्रविग्रहः ।
उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ॥14॥
~लुं ~लूं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः ।
ॐ औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ॥15॥
कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः ।
चं छं जं झं च नासां मे पातु यारं अर्यमा प्रभुः ॥16॥
टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः ।
तं थं दं धं गलं पातु नं नारायणवल्लभः ॥17॥
पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः ।
यं रं लं वं भुजौ पातु मूलं सकनायकः ॥18॥
शं षं सं हं पातु वक्षो मूलमन्त्रमयो ध्रुवः ।
लं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ॥19॥
ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः ।
अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः ॥20॥
~लुं ~लूं एं ऐं ॐ औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः ।
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ॥21॥
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु ।
पं फं बं भं यं रं लं वं जङ्घे मेऽव्याद् विभाकरः ॥22॥
शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः ।
ङं ञं णं नं मं मे पातु सविता सकलं वपुः ॥23॥
सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु ।
बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ॥24॥
पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः ।
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ॥25॥
ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः ।
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ॥26॥
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः ।
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ॥27॥
रणे राजकुले द्यूते विदादे शत्रुसङ्कटे ।
सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ॥28॥
ॐ ॐ ॐ उत ॐउऔं ह स म यः सूरोऽवतान्मां भयाद्
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः ।
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् सङ्कटात्
पायान्मां कुलनायकोऽपि सविता ॐ ह्रीं ह सौः सर्वदा ॥29॥
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भाम्भैर्भयाद् भास्करो
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् ।
अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ॥30॥
अथ फलशृतिः
इति श्रीकवचं दिव्यं वज्रपञ्जरकाभिधम् ।
सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ॥31॥
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् ।
गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ॥32॥
लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये ।
अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ॥33॥
अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि ।
कनकीकाष्ठलेखन्या कवचं भास्करोदये ॥34॥
श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् ।
सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ॥35॥
रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति ।
राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ॥36॥
कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी ।
शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ॥37॥
भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी ।
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥38॥
कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये ।
यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ॥39॥
महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति ।
तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ॥40॥
त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् ।
तस्य सद्यो महादेवि सविता वरदो भवेत् ॥41॥
अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् ।
तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ॥42॥
शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे ।
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ॥43॥
निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् ।
लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ॥44॥
भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये ।
इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ॥45॥
॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ॥
Post a Comment
please do not enter any spam link in the comment box.