Brihaspati Kavacham/Guru Kavacham pdf
बृहस्पति कवचम् (गुरु कवचम्)(Brihaspati Kavacham/Guru Kavacham):
अस्य श्रीबृहस्पति कवचमहा मन्त्रस्य, ईश्वर ऋषिः,
अनुष्टुप् छन्दः, बृहस्पतिर्देवता,
गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्,
बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम्
अà¤ीष्टफलदं वन्दे सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥
अथ बृहस्पति कवचम्
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेà¤ीष्टदायकः ॥ 1 ॥
जिह्वां पातु सुराचार्यः नासं मे वेदपारगः ।
मुखं मे पातु सर्वज्ञः कण्ठं मे देवतागुरुः ॥ 2 ॥
à¤ुजा वङ्गीरसः पातु करौ पातु शुà¤à¤ª्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुà¤à¤²à¤•्षणः ॥ 3 ॥
नाà¤िं देवगुरुः पातु मध्यं पातु सुखप्रदः ।
कटिं पातु जगद्वन्द्यः ऊरू मे पातु वाक्पतिः ॥ 4 ॥
जानुजङ्घे सुराचार्यः पादौ विश्वात्मकः सदा ।
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥ 5 ॥
फलशृतिः
इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वान् कामानवाप्नोति सर्वत्र विजयी à¤à¤µेत् ॥
॥ इति श्री बृहस्पति कवचम् ॥
Post a Comment
please do not enter any spam link in the comment box.