Sanskrit Class 8 Chapter 10 Question Answer सन्निमित्ते वरं त्यागः (क-भागः) | Class 8 Sanskrit Deepakam Solutions all Chapters
Here are clearly discuss about Sanskrit Class 8 Chapter 10 Question Answer सन्निमित्ते वरं त्यागः (क-भागः)
संस्कृत कक्षा 8 पाठ 10 के प्रश्न उत्तर सन्निमित्ते वरं त्यागः (क-भागः)
Class 8 Sanskrit Chapter 10 NCERT Solutions सन्निमित्ते वरं त्यागः (क-भागः)
(अभ्यासात् जायते सिद्धिः )
1. पाठम् आधृत्य उदाहरणानुगुणं लिखत ‘आम्’ अथवा ‘न’-
यथा –
किं राज्ञः शूद्रकस्य नगर्या : नाम शोभावती आसीत्? – आम्
किं वीरवरः अनेकशास्राणां ज्ञाता आसीत् ? – न
(क) किं वीरवरः राजपुत्रः आसीत्? ______________
उत्तराणि : आम्
(ख) ” किं ते वर्तनम् ” ? इति किं शूद्रक : अपृच्छत्? ______________
उत्तराणि : आम्
(ग) किं वीरवरं राज्ञः समीपे दौवारिकः अनयत्? ______________
उत्तराणि : आम्
(घ) किं राजा शूद्रक : राजपुत्रं वीरवरं साक्षात् दृष्ट्वा एव वृत्तिम् अयच्छत् ? ______________
उत्तराणि : न
(ङ) किं वीरवरः स्ववेतनस्य चतुर्थं भागम् एव पत्न्यै यच्छति स्म ? ______________
उत्तराणि : आम्
(च) किं करुण – रोदन – ध्वनिं राजा श्रुतवान् ? ______________
उत्तराणि : आम्
(छ) किं करुणरोदनध्वनिः दिवसे श्रुतः आसीत् ? ______________
उत्तराणि : न
(ज) किं राजलक्ष्म्या उक्तः उपायः अतीव दुःसाध्यः आसीत्? ______________
उत्तराणि : आम्
(झ) किं भगवती सर्वमङ्गला उपायं संसूच्य शीघ्रमेव अदृश्या अभवत्? ______________
उत्तराणि : आम्।
2. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) शूद्रकः कीदृशः राजा आसीत् ?
उत्तराणि : शूद्रकः पराक्रमी नानाशास्त्रविद् राजा आसीत्।
(ख) वीरवरः कस्य समीपं गन्तुम् इच्छति स्म ?
उत्तराणि : वीरवरः राज्ञः समीपं गन्तुम् इच्छति स्म ।
(ग) राज्ञः शूद्रकस्य ‘का ते सामग्री?’ इति प्रश्नस्य उत्तरं वीरवरः किम् अयच्छत्?
उत्तराणि : वीरवरः अवदत्- मम द्वौ बाहू खड्गश्च मम सामग्री अस्ति।
(घ) वीरवरः स्वगृहं कदा गच्छति स्म ?
उत्तराणि : यदा राजा आदिशति, तदा वीरवरः गृहं गच्छति स्म ।
(ङ) वीरवरः स्ववेतनस्य अर्धं केभ्यः यच्छति स्म ?
उत्तराणि : वीरवरः स्ववेतनस्य अर्धं देवेभ्यः यच्छति स्म।
(च) राजलक्ष्मीः कुत्र सुखेन अवसत् ?
उत्तराणि : राजलक्ष्मी राज्ञः भुजच्छायायां सुखेन अवसत्।
(छ) राजलक्ष्म्याः दुःखस्य कारणं श्रुत्वा बद्धाञ्जलिः वीरवरः किम् अवदत् ?
उत्तराणि : वीरवरः अवदत् – अस्ति अत्र राज्ञः जीवनस्य कश्चित् उपाय:?
3. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत-
3. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत-
यथा – वृत्त्यर्थमागतो राजपुत्रोऽस्मि तस्मान्नय मां स्वामिनः समीपम् ।
(अहं) राजपुत्रः वृत्त्यर्थम् आगतः अस्मि, तस्माद् मां स्वामिनः समीपं नय ।
(क) आसीत् शोभावती नाम काचन नगरी।
उत्तराणि : शोभावती नाम काचन नगरी आसीत् ।
(ख) प्रतिदिनं सुवर्णशतचतुष्टयं देव !
उत्तराणि : देव! प्रतिदिनं सुवर्णंचतुष्टयम् ।
(ग) देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथममवगम्यतां स्वरूपमस्य वेतनार्थिनो राजपुत्रस्य, किमुपपन्नमेतत् वेतनं न वेति ।
उत्तराणि : देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथमम् अस्य वेतनार्थिनः राजपुत्रस्य स्वरूपम् अवगम्यताम्। किम् एतत् वेतनम् उपपन्नं न वेति।
(घ) क्रन्दनमनुसर राजपुत्र !
उत्तराणि : राजपुत्र ! क्रन्दनम् अनुसर।
(ङ) अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
उत्तराणि : अथ मन्त्रिणां वचनेन नरपतिना असौ राजपुत्रः वीरवरः ताम्बूलदानेन नियोजितः ।
(च) नैष गन्तुमर्हति राजपुत्र एकाकी सूचिभेद्ये तिमिरेऽस्मिन् ।
उत्तराणि : अस्मिन् सूचिभेद्ये तिमिरे एवः राजपुत्रः एकाकी गन्तुं न अर्हति ।
(छ) भगवति ! अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति, सुचिरं जीवति च स्वामी?
उत्तराणि : भगवति । अस्ति अत्र कश्चिद् उपाय : ? येन इह भगवत्याः पुनः चिरवासो भवति स्वामी च सुचिरं जीवति ।
(ज) तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् ।
उत्तराणि : तदा राजा शूद्रकः पुनः वर्षाणां शतं जीविष्यति ।
4. उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य रिक्तस्थानानि पूरयत-
यथा- अथैकदा = अथ + एकदा
वृत्त्यर्थम् = वृत्ति + ______________
उत्तराणि : वृत्ति + अर्थम्
कस्मादपि = ______________ + अपि
उत्तराणि : कस्मात् + अपि
कोऽपि = कः + ______________
उत्तराणि : कः + अपि
राजपुत्रोऽस्मि = ______________ + अस्मि
उत्तराणि : राजपुत्र: + अस्मि
यथेष्टम् = यथा + ______________
उत्तराणि : यथा + इष्टम्
वेतनार्पणेन = वेतन + ______________
उत्तराणि : वेतन + अर्पणेन
तदालोक्य = ______________ + आलोक्य
उत्तराणि : तद् + आलोक्य
ततोऽसौ = ततः + ______________
उत्तराणि : ततः + असौ
वर्त्तनार्थिनो = ______________ + अर्थिनः
उत्तराणि : वर्तन + अर्थिनः
तदवशिष्टं = ______________ + अवशिष्टम्
उत्तराणि : तद् + अवशिष्टम्
राजदर्शनादनन्तरं = राजदर्शनात् + ______________
उत्तराणि : राजदर्शनात् + अनन्तरम्
वेति = ______________ + इति
वेति = ______________ + इति
उत्तराणि : वा + इति
राजलक्ष्मीरुवाच = राजलक्ष्मीः + ______________
उत्तराणि : राजलक्ष्मीः + उवाच
चार्द्धं = ______________ + अर्धम्
उत्तराणि : च + अर्धम्
बहिर्नगरादालोकिता = बहि: + ______________ + आलोकिता
उत्तराणि : बहिः + नगराद् + आलोकिता
कापि = ______________ + अपि
कापि = ______________ + अपि
उत्तराणि : का + अपि
प्रत्युवाच = प्रति + ______________
प्रत्युवाच = प्रति + ______________
उत्तराणि : प्रति + उवाच
राजलक्ष्मीरस्मि = ______________ + अस्मि
उत्तराणि : राजलक्ष्मीः + अस्मि
स्थास्यामीति = स्थास्यामि + ______________
स्थास्यामीति = स्थास्यामि + ______________
उत्तराणि : स्थास्यामि + इति
भुजच्छायायां = ______________ + छायायाम्
उत्तराणि : भुज + छायायाम्
अस्त्यत्र = अस्ति + ______________
उत्तराणि : अस्ति + अत्र
कश्चिदुपायो = ______________ + उपायः
कश्चिदुपायो = ______________ + उपायः
उत्तराणि : कश्चिद् + उपायः
५. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत-
५. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत-
यथा- अहं भवतः सेवायां नियोजितः ।
(क) ततः असौ तद्रोदनस्वरानुसरणक्रमेण प्रचलितः ।
उत्तराणि : वीरवराय
(ख) तत् अहम् अपि गच्छामि पृष्ठतोऽस्य ।
(ख) तत् अहम् अपि गच्छामि पृष्ठतोऽस्य ।
उत्तराणि : राज्ञे
(ग) चिरम् एतस्य भुजच्छायायां सुमहता सुखेन निवसामि ।
उत्तराणि : राज्ञे
(घ) सा चातीव दुःसाध्या।
(घ) सा चातीव दुःसाध्या।
उत्तराणि : प्रवृत्यै
(ङ) किं ते वर्तनम्?
(ङ) किं ते वर्तनम्?
उत्तराणि :वीरवराय ।
6. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत-
(क) राजलक्ष्मीः वदति यत् यदि वीरवरः स्वस्य सर्वप्रियं वस्तु त्यजति तदा सा पुनः शूद्रकस्य समीपे स्थास्यति।
6. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत-
(क) राजलक्ष्मीः वदति यत् यदि वीरवरः स्वस्य सर्वप्रियं वस्तु त्यजति तदा सा पुनः शूद्रकस्य समीपे स्थास्यति।
उत्तराणि : यदि त्वया स्वस्य सर्वतः प्रियं वस्तु सहासवदनेन भगवत्यै सर्वमङ्गलायै उपहारः क्रियेत, तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् अहञ्च सुखेन निवत्स्यामि ।
(ख) राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनां न स्वीकरोति।
(ख) राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनां न स्वीकरोति।
उत्तराणि : नैतच्छक्यम्।
(ग) एकदा कोऽपि वीरवरः नाम राजपुत्रः वृत्तिं प्राप्तुं राज्ञः शूद्रकस्य समीपं गच्छति ।
(ग) एकदा कोऽपि वीरवरः नाम राजपुत्रः वृत्तिं प्राप्तुं राज्ञः शूद्रकस्य समीपं गच्छति ।
उत्तराणि : एकदा वीरवरनामा राजपुत्रः वृत्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत्।
(घ) सः तस्य कर्तव्यनिष्ठां साक्षात् पश्यति ।
(घ) सः तस्य कर्तव्यनिष्ठां साक्षात् पश्यति ।
उत्तराणि : ततो नरपति: खड्गपाणिः तस्य अनुसरणक्रमेण बहि: निरगच्छत् नगरीद्वारात् ।
(ङ) राजा मन्त्रिणां मन्त्रणया वीरवराय वृत्तिं यच्छति ।
(ङ) राजा मन्त्रिणां मन्त्रणया वीरवराय वृत्तिं यच्छति ।
उत्तराणि : अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
7. अधोलिखितानां वाक्यानां पदच्छेदं कुरुत-
यथा – अथैकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत्।
अथ एकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मात् अपि देशात् राजद्वारम् उपागच्छत्।
(क) वृत्त्यर्थमागतो राजपुत्रोऽस्मि ।
उत्तराणि : वृत्त्यर्थम् आगतः राजपुत्रः अस्मि ।
(ख) अथैकदा कृष्णचतुर्दश्यामर्धरात्रे स राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन।
उत्तराणि : अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन।
(ग) तदहमपि गच्छामि पृष्ठतोऽस्य निरूपयामि च किमेतदिति ।
उत्तराणि : तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति ।
(घ) अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति ।
उत्तराणि : अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुन: इह चिरवासः भवति ।
(ङ) एकैवात्र प्रवृत्तिः सा चातीव दुःसाध्या।
उत्तराणि : एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या।
1. पाठस्य भावानुगुणम् अत्र केचन श्रोकाः प्रदत्ता: सन्ति। एतान् पठत
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ (यजुर्वेदः ४०.२)
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम्।
एवं कर्म च कर्ता च संश्लिष्टावितरेतरम्॥ (पञ्चतन्त्रम्)
कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तुमहर्हति॥ (वाल्मीकि-रामायणम्)
2. पठत बोधत –
पुरा विदेहनगरस्य शुद्धकेतुः नाम धर्मात्मा राजा आसीत्। तस्य पुत्रः जीमूतवाहनः
बाल्यकालाद् एव धर्मनिष्ठः, त्यागशीलः, परोपकाररतः, दीनानुकम्पी च आसीत्। सः स्वेच्छया धर्माचरणं कर्तु राज्यं त्यक्त्वा वनं गतवान्।
7. अधोलिखितानां वाक्यानां पदच्छेदं कुरुत-
यथा – अथैकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत्।
अथ एकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मात् अपि देशात् राजद्वारम् उपागच्छत्।
(क) वृत्त्यर्थमागतो राजपुत्रोऽस्मि ।
उत्तराणि : वृत्त्यर्थम् आगतः राजपुत्रः अस्मि ।
(ख) अथैकदा कृष्णचतुर्दश्यामर्धरात्रे स राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन।
उत्तराणि : अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन।
(ग) तदहमपि गच्छामि पृष्ठतोऽस्य निरूपयामि च किमेतदिति ।
उत्तराणि : तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति ।
(घ) अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति ।
उत्तराणि : अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुन: इह चिरवासः भवति ।
(ङ) एकैवात्र प्रवृत्तिः सा चातीव दुःसाध्या।
उत्तराणि : एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या।
योग्यताविस्तारः
1. पाठस्य भावानुगुणम् अत्र केचन श्रोकाः प्रदत्ता: सन्ति। एतान् पठत
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ (यजुर्वेदः ४०.२)
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम्।
एवं कर्म च कर्ता च संश्लिष्टावितरेतरम्॥ (पञ्चतन्त्रम्)
कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तुमहर्हति॥ (वाल्मीकि-रामायणम्)
2. पठत बोधत –
जीमूतवाहनस्य कथा
बाल्यकालाद् एव धर्मनिष्ठः, त्यागशीलः, परोपकाररतः, दीनानुकम्पी च आसीत्। सः स्वेच्छया धर्माचरणं कर्तु राज्यं त्यक्त्वा वनं गतवान्।
एकदा सः सागरतीरे भ्रमन्, एकं वृद्धं नागं विलोकयति, यः अत्यन्तं दुःखितः आसीत्। जीमूतवाहनः तं पृष्टवान् – “किं कारणं भवतः दुःखस्य ?”
नागः – “हे राजपुत्र ! अस्माकं नागकुलं गरुडेन खाद्यते। प्रतिदिनं एकः नागः तस्मै दातव्यः भवति। अद्य मम पुत्रस्य शड्खचूडस्य क्रमः अस्ति। अहं कुलविहीनः भविष्यामि इति कारणेन दुःखितोऽस्मि।” (तं दुःखितं दृष्ट्वा जीमूतवाहनः अत्यन्तं द्रवितचित्तः जातः। पश्चात् विचिन्त्य)
जीमूतवाहनः उक्तवान् – “यदि मम शरीरं गरुडस्य क्षुधार्थं पर्याप्तं स्यात्, तर्हि अहं तस्य स्थाने स्वदेहं दास्यामि।” जीमूतवाहनः तं नागं रक्षितुं स्वयं शङ्खचूडनागस्य रूपं धृत्वा गरुडस्य समीपं गतः। गरुडः तं नागं (जीमूतवाहनम्) गृहीत्वा शिलाखण्डे क्षिप्त्वा, भोक्तुं आरब्धवान्। गरुडस्य भोजनकाले जीमूतवाहनः किमपि कष्टं न दर्शितवान्। अत्यन्तं सहिष्णुतया तत्र निश्चलः स्थितवान्। निर्विकारचित्तं तं दृष्ट्वा गरुडः अचिन्तयत् – ‘एषः न कोऽपि सामान्यः नागः, यः स्वमृत्युसमयेऽपि ईदृशं धैर्यं धारयति।’ ततः सः भोजनात् विरम्य तस्य वास्तविकं परिचयं ज्ञातुम् इष्टवान्। सर्वं वृत्तान्तं ज्ञात्वा तस्य साहसं, कारुण्यं, परोपकारभावनां च दृष्ट्वा तं साधुवादेन सह मुक्तवान्। सः ‘नागवंशस्य हननात् विरंस्ये’ इति प्रतिज्ञामपि कृतवान्।
परोपकाराय फलन्ति वृक्षा: परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्॥
परियोजनाकार्यम्
2. अस्य पाठस्य कृते कानिचन नूतनानि शीर्षकाणि लिखत।
अत्र इदम् अवधेयम्
1. वाक्यान्वयः संस्कृतभाषायाः अनेकवैशिष्ट्येषु अन्यतमः अस्ति मुक्तः पदविन्यासक्रमः। तन्नाम वाक्ये कर्तृकर्म क्रियादिपदानि वयं स्वेच्छया भिन्नभिन्नक्रमेण नियोजयितुं शक्नुमः ।
वाक्य का अन्वय-मुक्त पदविन्यासक्रम संस्कृत भाषा की अनेक विशेषताओं में विशेष है। वाक्य में कर्ता, कर्म और क्रिया पद, हम अपनी इच्छा से भिन्न-भिन्न क्रम से नियोजित कर सकते हैं।
तद्यथा-
रामः वनम् अगच्छत्।
अगच्छत् रामः वनम्।
वनम् अगच्छत् रामः ।
साहित्यम् एवं विविध – पदविन्यासेन रमणीयं भवति । अस्मिन् पाठे एवंविधः मुक्तपदविन्यासः पुनः पुनः दृश्यते। तस्य अवलोकनेन संस्कृतवाक्यरचनायाः सौन्दर्यम् अवगच्छामः। पाठात् कानिचन उदाहरणानि पश्यन्तु।
साहित्य अनेक पदविन्यास के द्वारा सुन्दर होता है । इस पाठ में इस प्रकार का मुक्त पद विन्यास पुनः पुनः दिखाई पड़ता है। उसके अवलोकन से संस्कृत वाक्य रचना का सौन्दर्य हम जानते हैं । पाठ से कुछ उदाहरण देखो।
सामान्यः वाक्यक्रमः
शोभावती नाम काचन नगरी आसीत् । (पाठे)
साहित्ये वाक्यक्रमः
आसीत् शोभावती नाम काचन नगरी।
सामान्यः वाक्यक्रमः
तदविशिष्टं भोज्यविलासव्ययार्थं पत्न्याः हस्ते निक्षिपति च।
(पाठे) साहित्ये वाक्यक्रमः
निक्षिपति च तदविशिष्टं भोज्यविलासव्ययार्थं पत्न्याः हस्ते।
2. भूतकालः
कालस्य प्रायः ‘वर्तमानकालः भूतकालः भविष्यत् कालः ‘ इति त्रयः भेदाः सन्ति। एतेषु भूतकालः इति ‘अतीतस्य कालस्य’ वाचकं पदम् अस्ति । सामान्यतः भूतकालाय लङ्-लकारस्य प्रयोगः भवति ।
काल के प्रायः-वर्तमान काल, भूतकाल और भविष्यत् काल ये तीन ही भेद हैं। इनमें भूतकाल बीते हु काल का वाचक पद है। सामान्यतः भूतकाल के लिए लङ्लकार का प्रयोग होता है।
यथा, अस्मिन् पाठे ‘उपागच्छत् ( उप + अगच्छत् ), अनयत्, व्यचिन्तयत् (वि + अचिन्तयत्) ‘ इत्यादयः।
एतदतिरिक्तं लट्-लकारस्य क्रिया-पदेन सह ‘स्म’ इत्यस्य योजनं कृत्वा अपि भूतकालस्य भावः प्रकट्यते । इसके अलावा लट्लकार के क्रियापद के साथ ‘स्म’ का योग करके भी भूतकाल का भाव प्रकट किया जाता है।
यथा अस्मिन् पाठे ‘प्रतिवसति स्म ।
एवमेव भूतकाले धातुना सह ‘ क्तवतु – प्रत्ययः’ अपि योज्यते ।
इसी प्रकार भूतकाल में धातु के साथ क्तवतु प्रत्यय का भी योग किया जाता है।
यथा, अस्मिन् पाठे ‘श्रुतवान्’ इति प्रयोगः ।
एतासु परिस्थितिषु वाक्यस्य संरचना कर्तृवाच्ये भवति । एवमेव, भूतकाले ‘क्त – प्रत्ययस्य’ अपि योजनं भवति । इन परिस्थितियों में वाक्य की संरचना कर्तृवाच्य में होती है। इसी प्रकार भूतकाल में क्त प्रत्यय का भी योग होता है।
यथा, अस्मिन् पाठे ‘निर्गतः, नियोजितः, आलोकिता’ इत्यादयः प्रयोगाः । क्त प्रत्ययस्य प्रयोगस्य सन्दर्भे वाक्यस्य संरचना कर्तृवाच्ये, कर्मवाच्ये, भाववाच्ये च भवति ।
‘क्त’ प्रत्यय के प्रयोग के संदर्भ में वाक्य की संरचना कर्तृवाच्य, कर्मवाच्य तथा भाववाच्य में होती है। कर्तृ-कर्म-भाव-वाच्यानां विषये अग्रिमपाठस्य अवधेयांशे द्रष्टव्यम्।
%20%20Class%208%20Sanskrit%20Deepakam%20Solutions%20all%20Chapters.jpg)
Post a Comment
please do not enter any spam link in the comment box.