Sanskrit story with moral Einstein and His Driver

Sanskrit story with moral Einstein and His Driver

आइनस्टाइन तस्य चालकः च 
(Sanskrit Short Story) 

एकदा आइन्स्टाइन महोदयः कस्मिंश्चित् मुख्यमेलने व्याख्यानं दातुम् अवकाशं प्राप्तवान्। तत्समये वृष्ट्या बहिः अत्यन्तं शैत्यं गहनः अन्धकारः च आसीत्। यानचालकः वाहनं शुद्धिकृत्य यदा द्वारम् उद्धाटितवान् तदा एव आइन्स्टाइन -महोदयः गृहसोपानेषु अवतरन् आसीत्।    

वाहनं चालयन्तं चालकं आइन्स्टाइन महोदयः मृदुस्वरेण उक्तवान। "अहोरात्रं भौतिकशात्रेषु एव अहम् निमग्नः अस्मि। सर्वेषु मेलनेषु सभायां न कदापि अन्यां कल्पनां वदामि, एतेन् मम जामिता जाता।" इति।  

वस्तुतः सः कदाचित् एकस्मिन् दिन एव पञ्च षट वा व्याख्यानि दत्त्वा श्रान्तः आसीत्। चालकेन् विज्ञानशास्त्रं न अधीतं परन्तु तस्य बुद्धिः अतीव तीक्ष्णा, स्मरणशक्तिः अनुपमा च आसीत्।   

चालकः प्रत्युत्तरितवान "स्वामिन! आम् भवता यदुक्तं तदुचितम्।  मया सभायां अन्तिमासन्दे उपविश्य बहुवारं भवतः भाषणं श्रुतं।   

"यद्यपि अस्मिन् शास्त्रे मम अवगमनं न समीचीनं तथापि केवलं श्रवणमात्रेण अहम् एतस्य विज्ञानस्य वक्ता भवितुं अर्हामि। वैज्ञानिकरूपेण यदि अहम् भवदीयं व्याख्यानं श्रावयामि तर्हि तत्र का वा हानिः ?" इति। 

आइन्स्टाइन महोदयः स्मयमानः उत्साहेन उक्तवान्। "अये! एवं... तथैव आवां कुर्वः। वस्त्रपरिवर्तनं करवाव। मदीयं कृष्णवर्णं शिरस्त्रं अपि गृह्णातु। यत्र आवां गच्छन्तौ स्वः, तत्र कस्यापि मम मुख्यपरिचयः नास्ति अतः अयं मुख्यविषयः' इति। 

 किञ्चित्कालानन्तरं यदा उभावपि प्राप्तवन्तौ तदा अधिकः जनसम्मर्दः कुतूहलताय उपविष्टः आसीत्। प्रध्यापकावेषं धृत्वा वाहनचालकः वेदिकाम् आरुह्य भाषणम् आरभत्। 

कृष्णफलके गणितचिह्नाणि उत्तमरीत्या आइन्स्टाइन महोदयवत् तेन लिखितानि स्पष्टतया सर्वान् मुख्यान् अंशान् श्रावितवान्। शृण्वतां जनानां अवधानेन् तत्र सुचिपातशब्दोपि न श्रुतः। 
 
भाषाणसमाप्तौ यदा प्रेक्षकैः उच्चैः यावत् करताडनं कृतं तदा आइन्स्टाइन महोदयः सन्तोषम् अनुभूतवान्।  

प्रश्नकालः आगतः। आसन्देषु उपविशत्सु वैज्ञनिकेषु एकः चतुरः कश्चन् मध्यवयस्कः पुरुषः पर्यालोच्य स्वसमस्यां परिहर्तुं हस्तं उन्नीय प्रश्नं पृष्ठवान्। 

तस्य कठिनं प्रश्नं श्रुत्वा आइन्स्टाइन महोदयस्य ह्रदयस्पन्दनं प्रश्नभीत्या तीव्रतरं सञ्जातम्। "एषः किं करिष्यति इदानीम्? अस्मदीयां क्रीडां सर्वे ज्ञास्यन्ति।'' इति चिन्तितवान्। 

परन्तु चतुरः चालकः मन्दहासं प्रकटयन् उक्तवान्, "श्रीमन् कः क्लेशः अत्र ? भवतः प्रश्नः सरलः अपि च सामान्यः। प्रकोष्ठस्य पृष्ठभागे उपविष्टः मम यान चालकः अपि अस्य उत्तरं दातुम् शक्नोति। चालकमहोदय! कृपया अस्मिन् विषये कञ्चित् प्रकाशं ददातु।" इति। एवं रित्या सः चालकः स्वचातुर्यवशात् आत्मानम् आइन्स्टाइन महोदयस्य मानं च रक्षितवान्। 

  
Sanskrit Short Story Einstein and His Driver:

Einstein and H
is driver 
(Sanskrit Short Story) 

Once Einstein got an opportunity to give a lecture at an important conference. At that time, because of the rains, it was very cold, dense and dark outside. 

The driver, having cleaned the car, had opened the door when Einstein was walking down the steps of his house. After a few moments, Einstein spoke in a soft voice to the driver going in the car. "Day and night I am immersed in physician all meeting there is no other topic that I speak of and by this I am bored. 

It was a fact that sometimes in a day alone he gave five or six lectures and got tired. The driver had not studied any sciences but his intellect was sharp and his memory incomparable.

The driver responded, "sir, what you say is appropriate. I have sat in the last row of the assembly hall and listened to your lecture many times."

Even though my understanding isn't very good in this subject matter yet, I am capable of being an orator purely by listening. If I give your lecture in the guise of scientist, is there any loss?''

Einstein smiled and enthusiastically said, ''Hey! Let us do that. Les us change our clothes. Take my black cap as well. Where we are going no body knows my face so that is important.

after some time, when they both reached the assembly hall, an eager and large crowd was seated. In the guise of a professor, the driver climbed the stage an began speech.

He wrote math equations excellently on the black board just like Einstein. He clearly narrated the important points. From the concentration of the listening gentlemen not even the sound of a falling needle was heard.

At the end of the speech, Einstein was gladdened to the extent the audience clapped.

It was time for  Q and A. Amongst the seated scientist a clever middle aged person having contemplated, raised his hands to get his doubts clarified.

Fearing from the difficult question he heard, Einstein's heartbeat became rapid. He thought, '' What will he do now? Everyone will now know our game."

However, the clever driver smiled and said, Sir, what is the difficulty here?  Your question is simple and straightforward. At the rear of the room my driver who is sitting can also answer this. Oh! Driver! Sir! Please shine some light in this matter."


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post