Vande Bharat Mataram Songs Lyrics। Desh Bhakti Geet in Sanskrit।  वन्दे भारत मातरम् । वद भारत ! वन्दे मातरं । वन्दे मातरम् ।

Vande Bharat Mataram Songs Lyrics। Desh Bhakti Geet in Sanskrit।

Vande Bharat Mataram Songs Lyrics। Desh Bhakti Geet in Sanskrit। 


न्दे भारतमातरं वद भारत ! वन्दे मातरं ।

वन्दे मातरं.. वन्दे मातरं...वन्दे मातरम्. ॥

जन्मभूरियं वीरवराणां, त्यागधनानां धीराणां

मातृभूमये लोकहिताय च, नित्यसमर्पित चित्तानां ।

जितकोपानां कृतकृत्यानां.. (2), वित्तं तृणवद् दृष्टवताम्

मातृसेवनादात्मजीवने सार्थकतामानीतवतां ॥

वन्दे भारतमातरं वद भारत वन्दे मातरं ।

वन्दे मातरं.. वन्दे मातरं...वन्दे मातरम्. ॥






Vande Bharat Mataram Songs Lyrics




ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः

अर्थसञ्चयस्त्यागहेतुको धर्मसम्मतःकाम इह ।

नश्वर बुद्धिः क्षण-परिवर्तिनि, (2) काये आत्मन्न्यादरधीः

जातो यत्र हि स्वस्य जन्मना, धन्यं मन्यत आत्मानम् ॥

वन्दे भारतमातरं वद भारत वन्दे मातरं ।

वन्दे मातरं.. वन्दे मातरं...वन्दे मातरम्. ॥


Vande Bharat Mataram Songs Lyrics




मातस्त्वत्तो वित्तं चित्तं, स्वत्वं प्रतिभा देहबलम्

नाहं कर्ता कारयसि त्वं, निःस्पृहता मम कर्मफले ।

अर्पितमेतद् जीवन पुष्पं, (2) मातस्तव शुभ पाद तले

नान्यो मंत्रो नान्य चिन्तनं नान्यदेशहिताद्धि ऋते ॥

वन्दे भारतमातरं वद भारत वन्दे मातरं ।

वन्दे मातरं.. वन्दे मातरं...वन्दे मातरम्. ॥

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post