Dattatreya Vajra Kavacham PDF in Hindi/ Dattatreya Vajra Kavacham Sanskrit pdf


श्री दत्तात्रेय वज्र कवचम् (Dattatreya Vajra Kavacham):


ऋषय ऊचुः ।

कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौयुगे ।
धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥1॥

व्यास उवाच ।

शृण्वन्तु ऋषयस्सर्वे शीघ्रं सङ्कल्पसाधनम् ।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥2॥

गौरीशृङ्गे हिमवतः कल्पवृक्षोपशोभितम् ।
दीप्ते दिव्यमहारत्न हेममण्डपमध्यगम् ॥3॥

रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम् ।
मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥4॥


श्रीदेवी उवाच ।

देवदेव महादेव लोकशङ्कर शङ्कर ।
मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नशः ॥5॥

तन्त्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै ।
इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ॥6॥

इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः ।
करेणामृज्य सन्तोषात् पार्वतीं प्रत्यभाषत ॥7॥

मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते ।
इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्करः ॥8॥

ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् ।
क्वचित् विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ॥9॥

तत्र व्याहर्तुमायान्तं भिल्लं परशुधारिणम् ।
वध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतम् ॥10॥

अतीव चित्रचारित्र्यं वज्रकायसमायुतम् ।
अप्रयत्नमनायासमखिन्नं सुखमास्थितम् ॥11॥

पलायन्तं मृगं पश्चाद्व्याघ्रो भीत्या पलायतः ।
एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम् ॥12॥

श्री पार्वत्युवाच ।

किमाश्चर्यं किमाश्चर्यमग्रे शम्भो निरीक्ष्यताम् ।
इत्युक्तः स ततः शम्भुर्दृष्ट्वा प्राह पुराणवित् ॥13॥

श्री शङ्कर उवाच ।

गौरि वक्ष्यामि ते चित्रमवाङ्मानसगोचरम् ।
अदृष्टपूर्वमस्माभिर्नास्ति किञ्चिन्न कुत्रचित् ॥14॥

मया सम्यक् समासेन वक्ष्यते शृणु पार्वति ।
अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥15॥

समित्कुशप्रसूनानि कन्दमूलफलादिकम् ।
प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ॥16॥

प्रिये पूर्वं मुनीन्द्रेभ्यः प्रयच्छति न वाञ्छति ।
तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिनः ॥17॥

दलादनो महायोगी वसन्नेव निजाश्रमे ।
कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगम्बरम् ॥18॥

दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुम् ।
तत्‍क्षणात् सोऽपि योगीन्द्रो दत्तात्रेयः समुत्थितः ॥19॥

तं दृष्ट्वाश्चर्यतोषाभ्यां दलादनमहामुनिः ।
सम्पूज्याग्रे विषीदन्तं दत्तात्रेयमुवाच तम् ॥20॥

मयोपहूतः सम्प्राप्तो दत्तात्रेय महामुने ।
स्मर्तृगामी त्वमित्येतत् किं वदन्ती परीक्षितुम् ॥21॥

मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे ।
दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥22॥

अभक्त्या वा सुभक्त्या वा यः स्मरेन्नामनन्यधीः ।
तदानीं तमुपागम्य ददामि तदभीप्सितम् ॥23॥

दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् ।
यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोऽहं त्वया स्मृतः ॥24॥

दत्तात्रेयं मुनिं प्राह मया किमपि नोच्यते ।
त्वच्चित्ते यत् स्थितं तन्मे प्रयच्छ मुनिपुङ्गव ॥25॥


श्री दत्तात्रेय उवाच ।

ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् ।
तथेत्यङ्गीकृतवते दलादमुनये मुनिः ॥26॥

स्ववज्रकवचं प्राह ऋषिच्छन्दः पुरस्सरम् ।
न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ॥27॥

अस्य श्रीदत्तात्रेय वज्रकवच स्तोत्रमन्त्रस्य, किरातरूपी महारुद्रृषिः, अनुष्टुप् छन्दः, श्रीदत्तात्रेयो देवता, द्रां बीजम्, आं शक्तिः, क्रौं कीलकम्.
ॐ आत्मने नमः
ॐ द्रीं मनसे नमः
ॐ आं द्रीं श्रीं सौः
ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः
श्री दत्तात्रेय प्रसाद सिद्ध्यर्थे जपे विनियोगः

करन्यासः ।

ॐ द्रां अङ्गुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः ।

ॐ द्रां हृदयाय नमः ।
ॐ द्रीं शिरसे स्वाहा ।
ॐ द्रूं शिखायै वषट् ।
ॐ द्रैं कवचाय हुम् ।
ॐ द्रौं नेत्रत्रयाय वौषट् ।
ॐ द्रः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् ।

जगदङ्कुरकन्दाय सच्चिदानन्दमूर्तये ।
दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने ॥1॥

कदा योगी कदा भोगी कदा नग्नः पिशाचवत् ।
दत्तात्रेयो हरिः साक्षात् भुक्तिमुक्तिप्रदायकः ॥2॥

वाराणसीपुरस्नायी कॊल्हापुरजपादरः ।
माहुरीपुरभीक्षाशी सह्यशायी दिगम्बरः ॥3॥

इन्द्रनील समाकारः चन्द्रकान्तिसमद्युतिः ।
वैढूर्य सदृशस्फूर्तिः चलत्किञ्चिज्जटाधरः ॥4॥

स्निग्धधावल्य युक्ताक्षोऽत्यन्तनील कनीनिकः ।
भ्रूवक्षःश्मश्रुनीलाङ्कः शशाङ्कसदृशाननः ॥5॥

हासनिर्जित निहारः कण्ठनिर्जित कम्बुकः ।
मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥6॥

विशालपीनवक्षाश्च ताम्रपाणिर्दलोदरः ।
पृथुलश्रोणिललितो विशालजघनस्थलः ॥7॥

रम्भास्तम्भोपमानोरुः जानुपूर्वैकजङ्घकः ।
गूढगुल्फः कूर्मपृष्ठो लसत्वादोपरिस्थलः ॥8॥

रक्तारविन्दसदृश रमणीय पदाधरः ।
चर्माम्बरधरो योगी स्मर्तृगामी क्षणेक्षणे ॥9॥

ज्ञानोपदेशनिरतो विपद्धरणदीक्षितः ।
सिद्धासनसमासीन ऋजुकायो हसन्मुखः ॥10॥

वामहस्तेन वरदो दक्षिणेनाभयङ्करः ।
बालोन्मत्त पिशाचीभिः क्वचिद् युक्तः परीक्षितः ॥11॥

त्यागी भोगी महायोगी नित्यानन्दो निरञ्जनः ।
सर्वरूपी सर्वदाता सर्वगः सर्वकामदः ॥12॥

भस्मोद्धूलित सर्वाङ्गो महापातकनाशनः ।
भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ॥13॥

एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् ।
मामेव पश्यन्सर्वत्र स मया सह सञ्चरेत् ॥14॥

दिगम्बरं भस्मसुगन्ध लेपनं
चक्रं त्रिशूलं ढमरुं गदायुधम् ।
पद्मासनं योगिमुनीन्द्रवन्दितं
दत्तेतिनामस्मरणेन नित्यम् ॥15॥

पञ्चोपचारपूजा ।

ॐ लं पृथिवीतत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
गन्धं परिकल्पयामि।

ॐ हं आकाशतत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
पुष्पं परिकल्पयामि ।

ॐ यं वायुतत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
धूपं परिकल्पयामि ।

ॐ रं वह्नितत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
दीपं परिकल्पयामि ।

ॐ वं अमृत तत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
अमृतनैवेद्यं परिकल्पयामि ।

ॐ सं सर्वतत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
ताम्बूलादिसर्वोपचारान् परिकल्पयामि ।

(अनन्तरं ‘ॐ द्रां…’ इति मूलमन्त्रं अष्टोत्तरशतवारं (108) जपेत्)



अथ वज्रकवचम् ।

ॐ दत्तात्रेयाय शिरःपातु सहस्राब्जेषु संस्थितः ।
फालं पात्वानसूयेयः चन्द्रमण्डलमध्यगः ॥ 1 ॥

कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः ।
ज्योतिरूपोऽक्षिणीपातु पातु शब्दात्मकः श्रुती ॥ 2 ॥

नासिकां पातु गन्धात्मा मुखं पातु रसात्मकः ।
जिह्वां वेदात्मकः पातु दन्तोष्ठौ पातु धार्मिकः ॥ 3 ॥

कपोलावत्रिभूः पातु पात्वशेषं ममात्मवित् ।
सर्वात्मा षोडशाराब्जस्थितः स्वात्माऽवताद् गलम् ॥ 4 ॥

स्कन्धौ चन्द्रानुजः पातु भुजौ पातु कृतादिभूः ।
जत्रुणी शत्रुजित् पातु पातु वक्षस्थलं हरिः ॥ 5 ॥

कादिठान्तद्वादशारपद्मगो मरुदात्मकः ।
योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥ 6 ॥

पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः ।
हठयोगादियोगज्ञः कुक्षिं पातु कृपानिधिः ॥ 7 ॥

डकारादि फकारान्त दशारसरसीरुहे ।
नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥ 8 ॥

वह्नितत्त्वमयो योगी रक्षतान्मणिपूरकम् ।
कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु ॥ 9 ॥

वकारादि लकारान्त षट्पत्राम्बुजबोधकः ।
जलतत्त्वमयो योगी स्वाधिष्ठानं ममावतु ॥ 10 ॥

सिद्धासन समासीन ऊरू सिद्धेश्वरोऽवतु ।
वादिसान्त चतुष्पत्रसरोरुह निबोधकः ॥ 11 ॥

मूलाधारं महीरूपो रक्षताद् वीर्यनिग्रही ।
पृष्ठं च सर्वतः पातु जानुन्यस्तकराम्बुजः ॥ 12 ॥

जङ्घे पात्ववधूतेन्द्रः पात्वङ्घ्री तीर्थपावनः ।
सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशवः ॥ 13 ॥

चर्म चर्माम्बरः पातु रक्तं भक्तिप्रियोऽवतु ।
मांसं मांसकरः पातु मज्जां मज्जात्मकोऽवतु ॥ 14 ॥

अस्थीनि स्थिरधीः पायान्मेधां वेधाः प्रपालयेत् ।
शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ॥ 15 ॥

मनोबुद्धिमहङ्कारं हृषीकेशात्मकोऽवतु ।
कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ 16 ॥

बन्धून् बन्धूत्तमः पायाच्छत्रुभ्यः पातु शत्रुजित् ।
गृहारामधनक्षेत्रपुत्रादीन् शङ्करोऽवतु ॥ 17 ॥

भार्यां प्रकृतिवित् पातु पश्वादीन् पातु शार्‍ङ्गभृत् ।
प्राणान् पातु प्रधानज्ञो भक्ष्यादीन् पातु भास्करः ॥ 18 ॥

सुखं चन्द्रात्मकः पातु दुःखात् पातु पुरान्तकः ।
पशून् पशुपतिः पातु भूतिं भूतेश्वरो मम ॥ 19 ॥

प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः ।
याम्यां धर्मात्मकः पातु नैरृत्यां सर्ववैरिहृत् ॥ 20 ॥

वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु ।
कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ॥ 21 ॥

ऊर्ध्वं पातु महासिद्धः पात्वधस्ताज्जटाधरः ।
रक्षाहीनं तु यत् स्थानं रक्षत्वादिमुनीश्वरः ॥ 22 ॥

करन्यासः ।

ॐ द्रां अङ्गुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः ।

ॐ द्रां हृदयाय नमः ।
ॐ द्रीं शिरसे स्वाहा ।
ॐ द्रूं शिखायै वषट् ।
ॐ द्रैं कवचाय हुम् ।
ॐ द्रौं नेत्रत्रयाय वौषट् ।
ॐ द्रः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्विमोकः ।




॥ फलशृति ॥

एतन्मे वज्रकवचं यः पठेत् शृणुयादपि ।
वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम् ॥23॥

त्यागी भोगी महायोगी सुखदुःखविवर्जितः ।
सर्वत्र सिद्धसङ्कल्पो जीवन्मुक्तोऽद्यवर्तते ॥24॥

इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बरः ।
दलादनोऽपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ॥25॥

भिल्लो दूरश्रवा नाम तदानीं श्रुतवानिदम् ।
सकृच्छ्रवणमात्रेण वज्राङ्गोऽभवदप्यसौ ॥ 26॥

इत्येतद् वज्रकवचं दत्तात्रेयस्य योगिनः ।
श्रुत्वा शेषं शम्भुमुखात् पुनरप्याह पार्वती ॥27॥


श्री पार्वत्युवाच ।

एतत् कवच माहात्म्यं वद विस्तरतो मम ।
कुत्र केन कदा जाप्यं कियज्जाप्यं कथं कथम् ॥28॥

उवाच शम्भुस्तत् सर्वं पार्वत्या विनयोदितम् ।


श्रीपरमेश्वर उवाच ।


शृणु पार्वति वक्ष्यामि समाहितमनाविलम् ॥29॥

धर्मार्थकाममोक्षाणामिदमेव परायणम् ।
हस्त्यश्वरथपादाति सर्वैश्वर्य प्रदायकम् ॥30॥

पुत्रमित्रकलत्रादि सर्वसन्तोषसाधनम् ।
वेदशास्त्रादिविद्यानां विधानं परमं हि तत् ॥31॥

सङ्गीत शास्त्र साहित्य सत्कवित्व विधायकम् ।
बुद्धि विद्या स्मृति प्रज्ञा मति प्रौढिप्रदायकम् ॥32॥

सर्वसन्तोषकरणं सर्वदुःखनिवारणम् ।
शत्रुसंहारकं शीघ्रं यशःकीर्तिविवर्धनम् ॥33॥

अष्टसङ्ख्या महारोगाः सन्निपातास्त्रयोदश ।
षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ॥34॥

अष्टादशतु कुष्ठानि गुल्मान्यष्टविधान्यपि ।
अशीतिर्वातरोगाश्च चत्वारिंशत्तु पैत्तिकाः ॥35॥

विंशतिः श्लेष्मरोगाश्च क्षयचातुर्थिकादयः ।
मन्त्रयन्त्रकुयोगाद्याः कल्पतन्त्रादिनिर्मिताः ॥36॥

ब्रह्मराक्षस वेतालकूष्माण्डादि ग्रहोद्भवाः ।
सङ्गजा देशकालस्थास्तापत्रयसमुत्थिताः ॥37॥

नवग्रहसमुद्भूता महापातक सम्भवाः ।
सर्वे रोगाः प्रणश्यन्ति सहस्रावर्तनाद् ध्रुवम् ॥38॥

अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत् ।
अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ॥39॥

अयुतत्रितयाच्चैव खेचरत्वं प्रजायते ।
सहस्रायुतदर्वाक् सर्वकार्याणि साधयेत् ॥40॥

लक्षावृत्त्या सर्वसिद्धिर्भवत्येव न संशयः ॥41॥

विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुखः ।
कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम् ॥42॥

औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते ।
श्रीवृक्षमूले श्रीकामी तिन्त्रिणी शान्तिकर्मणि ॥43॥

ओजस्कामोऽश्वत्थमूले स्त्रीकामैः सहकारके ।
ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभिः ॥44॥

धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ।
देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ॥45॥

नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ।
युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ॥46॥

कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् ।
ज्वरापस्मारकुष्ठादि तापज्वरनिवारणम् ॥47॥

यत्र यत् स्यात् स्थिरं यद्यत् प्रसक्तं तन्निवर्तते ।
तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् ॥48॥

इत्युक्तवान् शिवो गौर्वै रहस्यं परमं शुभम् ।
यः पठेत् वज्रकवचं दत्तात्रेय समो भवेत् ॥49॥

एवं शिवेन कथितं हिमवत्सुतायै
प्रोक्तं दलादमुनयेऽत्रिसुतेन पूर्वम् ।
यः कोऽपि वज्रकवचं पठतीह लोके
दत्तोपमश्चरति योगिवरश्चिरायुः ॥50॥

॥ इति श्री रुद्रयामले हिमवत्खण्डे मन्त्रशास्त्रे उमामहेश्वरसंवादे श्री दत्तात्रेय वज्रकवचस्तोत्रं सम्पूर्णम् ॥

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post