Chandra Kavacham PDF/Chandra Kavacham Lyrics in Sanskrit


Here are mention Chandra Kavacham PDF/Chandra Kavacham Lyrics in Sanskrit

चन्द्र कवचम् (Chandra Kavacham): 


अस्य श्री चन्द्र कवचस्य । गौतम ऋषिः । अनुष्टुप् छन्दः । श्री चन्द्रो देवता । चन्द्र प्रीत्यर्थे जपे विनियोगः ॥

ध्यानं

समं चतुर्भुजं वन्दे केयूर मकुटोज्वलम् ।
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ॥

अथ चन्द्र कवचम्

शशी पातु शिरोदेशं भालं पातु कलानिधिः ।
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ॥1॥


प्राणं क्षपकरः पातु मुखं कुमुदबान्धवः ।
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ॥2॥


करौ सुधाकरः पातु वक्षः पातु निशाकरः ।
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ॥3॥


मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ।
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ॥4॥


अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ।
सर्वाण्यन्यानि चाङ्गानि पातु चन्द्रोखिलं वपुः ॥5॥


फलश्रुतिः

एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥6॥


॥ इति श्रीचन्द्र कवचं सम्पूर्णम् ॥

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post