Essay on city life  in Sanskrit

Essay on city life  in Sanskrit

Here are Essay on  city life  in Sanskrit, City life Essay in English.

नगरजीवनम् 

1. भारतवर्षे बहूनि नगराणि सन्ति। 
2. नगरेषु जीवनं सुखदं रुचिकरं च भवति। 
3. नगरवासिनः जना नागरिकाः इति कथ्यन्ते। 
4. नगरेषु सुविधाः अधिकाः सन्ति। 
5. अतः सर्वे अपि नगरेषु एव निवासम् इच्छन्ति। 
6. नगरेषु विद्याध्ययनार्थं विद्यालयाः महाविद्यालयाः च भवन्ति। 
7. तत्र यः यावद् पठितुं इच्छति, तावत् पठितुं शक्नोति। 
8. तत्र यानस्य, धूम्रयानस्य, स्वच्छेषु भवनेषु निवासस्य, पठनस्य, पाठनस्य, आदानस्य, प्रदानस्य, अन्येषां जीवनोपयोगिनां वस्तूनां च बहुविधा सुविधा भवति। 
9. तत्र जीविकायाः उपार्जनस्य च बहवः सुविधाः सन्ति। 
10. तत्र जनाः सरलतया जीविकायाः निर्वाहं कर्तुं समर्थाः भवन्ति।
11. तत्र आमोदस्य प्रमोदस्य मनोरञ्जनस्य च बहूनि साधनानि भवन्ति। 
12. यैः जना मनोरञ्जनं कुर्वन्ति। 
नगरजीवनम् सर्वेभ्यः रोचते।  
     

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post