Influence of Ramayana Essay in Sanskrit/रामायणस्य प्रभावः 

Influence of Ramayana Essay in Sanskrit

रामायणस्य प्रभावः 

रामायणं आदिकाव्यं करुणरससारं। आदिकाव्यमिदं चार्षं पूरावाल्मीकिना कृतं। गौरवर्गवाष्परम् यत् किमपि चरितमहात्म्यम्, तत् सर्वं कविनात्र निवद्धम् सुगभीर-हृदयावेगेन।  अस्य नायकपुरुषो लोकोत्तरचरितो हि रामः। स रक्षिता जीवलोकस्य धर्मस्य च रक्षिता।  राज्यं तस्य स्वर्गराज्यमिव।  सीता ही 'पतिव्रतानां धुरि कीर्तनीया।' भरतस्यात्मत्यागो लक्षणस्य च भातृभक्तिर्हनुमतश्च प्रभुभक्तिरिति सर्वं अनवद्यमेव।  रामायणं भारतवर्षस्य चिरायतम् ऐतिह्यम् आवहति। तदस्माकं साहित्यं समाजं राष्ट्रियभावादर्शञ्च अनुप्रेरयति।  इदं कवीनां परमम् आधारभूतम्।  भास-कालिदास-भट्टि-भवभूति-प्रभितिभिः रामायणकथां उपजीव्यैव काव्यं नाटकं च विविधं प्रणीतं।  तुलसीदासेन-कृत्तिवासकविना च लौकिकभाषायामपि तत् प्रचारितम्।  अद्यापि रामायणं मानवीय-कर्णमूले महासंगीतमिव नित्यं अनुरण्यत् इति रवींद्रनाथस्यापि अनुभवः। सार्थकस्तावत् लोकपितामहस्य आशीर्वादः- 

यावत् स्थास्यन्ति गिरयः सरितश्च महीतले। 

तावत् रामायणीकथा लोकेषु प्रचरिष्यति।।               

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post