परोपकार पर संस्कृत निबंध /Essay on Paropkar in Sanskrit
Here are Paropkar par Sanskrit Nibandh, Paropkar Essay in Sanskrit, Essay on Paropkar par in Sanskrit, Paropkar Essay in Sanskrit.
10 lines Essay on Paropkar in Sanskrit
परोपकारः
1. परेषाम् उपकारः परोपकारः अस्ति।
2. अन्येषां हितकरणम्, निर्धनेभ्यः दानम्, असहायानां सहायता, एतत् सर्वं परोपकारः एव उच्यते।
3. संसारे परोपकारः एव स गुणः अस्ति।
4. येन मनुष्येषु सुखस्य प्रतिष्ठा अस्ति।
5. समजसेवायाः भावना, देशप्रेम्णः भावना, देशभक्तेः भावना, दीनोद्धारस्य भावना, परदुःखेषु सहानुभूतिः च परोपकारस्य भावनया एव सम्भवति।
6. परोपकारकरणेन मनुष्यस्य हृदयं पवित्रं निर्मलं सरलं विनीतं च भवति।
7. परोपकारी अन्यस्य दुःखं स्वकीयं मन्यते, तस्य नाशाय च प्रयत्नं करोति।
8. दीनेभ्यः दानं ददाति, निर्धनेभ्यः धनं ददाति, वस्तहीनेभ्यः वस्त्राणि ददाति, पिपासितेभ्यः जलं ददाति, क्षुधितेभ्यः अन्नं ददाति, अशिक्षितेभ्यः विद्यां च ददाति।
9. प्रकृतिः अपि परोपकारस्य शिक्षां ददाति।
10. परोपकारार्थं सूर्यः तपति, चन्द्रः प्रकाशम् ददाति, वायुः चलति, नद्यः वहन्ति, वृक्षाः च फलानि वितरन्ति।
Tags:
Paropkar par Sanskrit Nibandh, Paropkar Essay in Sanskrit, Essay on Paropkar par in Sanskrit, Paropkar Essay in Sanskrit.
Post a Comment
please do not enter any spam link in the comment box.