Desh bhakti songs in Sanskrit lyrics

एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।
अस्य मृत्तिका शिरसा वन्द्या, भुमिरियं बलिदानस्य।
वन्दे मातरं, वन्दे मातरम्।।
उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यातः।
दक्षिणदेशे पदक्षालको महासागरः प्रख्यातः।
पश्यत् गङ्गायमुनातीरं परं पावनं भूलोके
स्थाने स्थाने यद् दिव्यत्वं नैव सुराणामपि नाके
एकमेव तत् स्थानं चैतत देवानामवतारस्य।। अस्य।।
रजपूतानामेतत स्थानं खड्गे येषाम् अभिमानः
धर्मरक्षणे युद्धे मरणं यैर्मन्यते सम्मानः।
अत्रैवासीत् प्रतामवीरो विश्वेsस्मिन् यो बहुमान्यः
शीलरक्षणे भस्मीभूताः अत्रासङख्य पद्मिन्यः
रजः सुपूतं विरापदाब्जैः स्थानं चैतद्देशस्य।। अस्य।।
वङ्गोSयं यद्धरणीहरिता मनोहारिणी सर्वत्र
निजराष्ट्रार्थं सिद्धा मरणे सन्ति बालका अप्यत्र।
रामकृष्ण-गौराङ्ग-विवेकानन्द-प्रमुखाः यत्रासन्
अरविन्दाद्याः क्रान्तिकारकाः शान्तिपूजकाः यत्रासन्
जन्मभूमियं 'नेताजेः' प्रख्यातस्य सुभाषस्य।। अस्य।।
इयं दृश्यतां महाराष्ट्रभूः यत्र शिवाजी राजासीत्
यस्य भवानीकरवालेन् म्लेच्छानां संहारोSभूत।
स्थाने स्थाने पर्वतभागे सामर्थाग्निः प्रकटोSभूत
घोषो 'हर हर महादेव ' इति बाले बाले प्राविरभूत्
कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य।। अस्य।।
भक्तिमानयं दक्षिणदेशो गोदाकृष्णापरिपुष्टः
गगनस्पर्धित-शिल्पकलान्वित-गोपुरभालैर्विभूषितः।
अत्र विद्यते सुजनस्थानं सीतापति-पदपरिपूतम्।
अत्र शंकराचार्याः वन्ध्याः केरलभागे सम्भूताः।
विजयनगर-साम्राज्यमिहासीत ख्यातं हिन्दुधर्मस्य।। अस्य।।
More songs lyrics-
Desh bhakti songs in Sanskrit lyrics
Desh bhakti songs in Sanskrit lyrics -
Eta Bālakaḥ Darśayāmi Vastejo Hindusthānasya, Tejo Bharatvarṣasya.
Asya Mr̥ttikā Śirasā Vandhyā, Mumiriyaṁ Balidānasya.
Vande Mataraṁ, Vande Mātaraṁ.
More know Click Here--below the links-👇👇👇
👉 Chala chala purato Sanskrit Songs lyrics
👉 Foods and drinks name in Sanskrit
Post a Comment
please do not enter any spam link in the comment box.